|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.295. अध्यायः 295
Mahabharata - Vana Parva - Chapter Topics
मनसा स्वानुगुणनिर्धारणपूर्वकं वनादागतया सावित्र्या नारदेन सह संभाषमाणस्य पितुरन्तिकमेत्य तयोः पादाभिवादनम् ॥ 1 ॥ नारदसंनिधौ पित्रा पृष्टया तथा द्युमस्सेनसूनोः सत्यवतः पठित्वेन मनसा वरणकथनम् ॥ 2 ॥ पित्रा नारदवचनात्तस्याल्पायुष्ट्वनिवेदनपूर्वकं वरान्तरवरणं चोदितयापि तया स्वाध्यवसायादनिवर्तनम् ॥ 3 ॥ राज्ञापि तस्या निर्वन्धान्नारदवचनाच्च तस्मा एव तस्या दानाध्यवसानम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-295-0x(2734)(27282)
अथ मद्राधिपो राजा नारदेन समागतः।
उपविष्टः सभामध्ये कथायोगेन भारत ॥ 3-295-1(27283)
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥ 3-295-2(27284)
नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा।
उभयोरेव शिरसा चक्रे पादाभिवादनम् ॥ 3-295-3(27285)
नारद उवाच। 3-295-4x(2735)
क्व गताऽभूत्सुतेयं ते कुतश्चैवागता नृप।
किमर्थं युवतीं भद्र न चैनां संप्रयच्छसि ॥ 3-295-4(27286)
अश्वपतिरुवाच। 3-295-5x(2736)
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता।
एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥ 3-295-5(27287)
मार्कण्डेय उवाच। 3-295-6x(2737)
सा ब्रूहि विस्तरेणेति पित्रा संयोदिता शुभा।
तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत् ॥ 3-295-6(27288)
आसीत्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः।
द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह ॥ 3-295-7(27289)
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ 3-295-8(27290)
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्।
महारण्यं गतश्चापि पस्तेषे महाव्रतः ॥ 3-295-9(27291)
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने।
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥ 3-295-10(27292)
नारद उवाच। 3-295-11x(2738)
अहो वत महत्पापं सावित्र्या नृपते कृतम्।
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥ 3-295-11(27293)
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते।
तथाऽस् ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥ 3-295-12(27294)
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्।
चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ 3-295-13(27295)
राजोवाच। 3-295-14x(2739)
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः।
क्षमावानपि वा शृरः सत्यवान्पितृवत्सलः ॥ 3-295-14(27296)
नारद उवाच। 3-295-15x(2740)
विवस्वानिव तेजस्वी वृहस्पतिसमो मतौ।
महेन्द्र इवन वीरश्च वसुधेव क्षमान्वितः ॥ 3-295-15(27297)
अश्वपतिरुवाच। 3-295-16x(2741)
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान्।
रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः ॥ 3-295-16(27298)
नारद उवाच। 3-295-17x(2742)
सांकृते रन्तिदेवस् स्वशक्त्या दानतः समः।
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ 3-295-17(27299)
ययातिरिव चोदारः सोमवत्प्रियदर्शनः।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ 3-295-18(27300)
`स वदान्यः स तेजस्वीधीमांश्चैव क्षमान्वितः'।
स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः।
सन्मैत्रः सोनसूयश्च स ह्रीमान्द्युतिमांश्च सः ॥ 3-295-19(27301)
नित्यशश्चार्जवं तस्मिन्धृतिस्तत्रैव च ध्रुवा।
संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥ 3-295-20(27302)
अश्वपतिरुवाच। 3-295-21x(2743)
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे।
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥ 3-295-21(27303)
नारद उवाच। 3-295-22x(2744)
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति।
स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् ॥ 3-295-22(27304)
एको दोषोऽस्ति नान्योऽस्य सोद्यप्रभृति सत्यवान्।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥ 3-295-23(27305)
राजोवाच। 3-295-24x(2745)
एहि सावित्रि गच्छस्व अन्यं वरय शोभने।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः ॥ 3-295-24(27306)
यथा मे भगवानाह नारदो देवसत्कृतः।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥ 3-295-25(27307)
सावित्र्युवाच। 3-295-26x(2746)
सकृदंशो निपतति सकृत्कन्या प्रदीयते।
स कृदाह ददानीति त्रीण्येतानि सकृत्सकृते ॥ 3-295-26(27308)
दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा।
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ 3-295-27(27309)
मनसा निश्चयं कृत्वाततो वाचाऽभिधीयते।
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ॥ 3-295-28(27310)
नारद उवाच। 3-295-29x(2747)
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव।
नैषा वारयितुं शक्या धर्मादस्मात्कथंचन ॥ 3-295-29(27311)
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥ 3-295-30(27312)
राजोवाच। 3-295-31x(2748)
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः।
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥ 3-295-31(27313)
नारद उवाच। 3-295-32x(2749)
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव।
साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः ॥ 3-295-32(27314)
मार्कण्डेय उवाच। 3-295-33x(2750)
एवमुक्त्वा स्वमुत्पत्य नारदस्त्रिदिवं गतः।
राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत् ॥ 3-295-33(27315)
इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥ 295 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-295-1 कथायोगेन कथाप्रसङ्गेन ॥ 3-295-8 सामीप्येन समीपवासिना। छिद्रे अन्धत्वे सति ॥ 3-295-10 स्यवान्नामतः ॥ 3-295-14 तेजस्वी प्रभाववान् ॥ 3-295-17 सांकृतेः संकृतिपुत्रस्य ॥ 3-295-22 आक्रम्य अभिभूय ॥ 3-295-26 अंशः काष्ठपाषाणादेः शकलः सकृन्निपतति। कृतस्य करणं नास्तीत्यर्थः ॥ 3-295-31 एतत् सावित्र्या वचनं अविचाल्यं भवता च तथ्यं उक्तम् ॥ 3-295-32 साधयिष्यामि गमिष्यामि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|